தமிழர் சமயம்

Members Login
Username 
 
Password 
    Remember Me  
Post Info TOPIC: 11. Sunīti Kusumamālā


Guru

Status: Offline
Posts: 1049
Date:
11. Sunīti Kusumamālā
Permalink  
 


11. Sunīti Kusumamālā — Chakrapani Aiyyarधर्मः१. ॥ ईश्वरस्तुतिः ॥

अकारादीनि सर्वासां वर्णानां अक्षराणि वै ।
य ईशः सर्वभूताद्यः तदादीदं जगत्किल ॥ १ ॥
तत्वज्ञानविशिष्टात्मभुवः पुण्याङ्घ्रिसेवनम् ।
न कुर्याद्यो वृथा तस्य सर्वविद्यापरिश्रमः ॥ २ ॥
न कुर्याद्यो वृथा तस्य सर्वविद्यापरिश्रमः ॥ २ ॥
हृदब्जवासिनः पादं महीयांसं नमन्ति ये ।
लोकोत्तमे चिरं वासं प्राप्नुयुस्ते न संशयः ॥ ३ ॥
इच्छानिच्छे न विद्यते यस्येत्याहुर्मनीषिणः ।
तदङ्गघ्रिस्पृङ्मनुष्यादि न शोचन्ति कदाचन ॥ ४ ॥
य ईशं स्तोतुं इच्छन्ति श्रद्धाभक्तिसमन्विताः ।
अविद्यावासनासक्त सदसत्कर्मबाह्यकाः ॥ ५ ॥
पञ्चेन्द्रियाध्वनां पञ्चरागाणां द्वेष्टुरुत्तमम् ।
पारमार्थिक मार्गस्थाः शाश्वतं पदमाप्नुयुः ॥ ६ ॥
अद्वितीयाप्रमेयस्य पादनम्रपरैर्विना ।
इतरैर्नहि शक्यन्त अधरीकर्तुमाधयः ॥ ७ ॥
कृपानिधेः पादनौकां श्रिता ये तान्विना भुवि ।
अगम्यं पारमन्येषां अर्थकाम महोदधेः ॥ ८॥
विकलानीन्द्रियाणीव मूर्धानस्ते निरर्थकाः ।
अङ्घ्रीयेऽष्टगुणेशस्य न नमेयुस्सदा भुवि ॥ ९॥
जगदीशाङ्घ्रिनावं ये भजन्ते मानवा इह ।
तरन्ति तरसैवैते नान्ये संसारसागरम् ॥ १० ॥
4.



__________________
Page 1 of 1  sorted by
 
Quick Reply

Please log in to post quick replies.



Create your own FREE Forum
Report Abuse
Powered by ActiveBoard